________________
SARAGRAARA
यादित्याह-'से सव्वलोए' इत्यादि, यः पाषण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिंल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीविद्वत्तम इति स्यात्, लोके केचन विद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह–'अणुवीई'
इत्यादि, ये केचन लोके 'निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङमयः प्राण्युपधातकारी दण्डो र यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य-पर्यालोच्य पश्य-अवगच्छ । के चोपरतदण्डा इत्यत आह-जे केई' इत्यादि, ये
केचनावगतधर्माणः सत्त्वाः-प्राणिनः 'पलित'मिति कर्म तत्त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म नन्ति ते |विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य 'पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति ? इत्यत आह-नरे' इत्यादि, नराः-मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा-मृतेव मृता संस्काराभावाद, शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चा-तेजः, स च क्रोधः, स च कषायोपलक्षणार्थः, ततश्चायमों-मृता-विनष्टा अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किं च 'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतो, यत एव धर्मविदोऽत एव ऋजवः-कौटिल्यरहिताः । स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह–'आरंभज' मित्यादि, सावद्यक्रियानुष्ठानमारम्भस्तस्माजातमारम्भ, किं तद् ?-दुःखमिदमिति सकलप्राणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भवन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति-'एव'मित्यादि, ‘एवं' पूर्वोक्तप्रकारेण 'आहुः' उक्तवन्तः, के एव
**48444444444***X
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org