SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ १८९ ॥ माहुः ? - समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः कस्मात्त ऊचुरित्याह - 'ते सब्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिका:' प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त एव प्रावादिकाः - यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, 'दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्म्मणः 'कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यान परिज्ञामुदाहरन्ति, 'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्म्मबन्धोदय सत्कर्म्मताविधानतः परिज्ञाय 'सर्वशः' सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उतरप्रकृतिप्रकारा अष्टपशाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्म्मता कार्य भूतैरागामिबन्धसत्कर्म्मताकारणैश्च कर्म्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा - मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्म्मप्रकृतीयौगपद्येन वेदयतोऽष्टविधं तच कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविधं, घातिक्षये चतुर्विधमिति । साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते, तत्र ज्ञानावरणीयान्तराययोः पञ्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनच| तुष्कस्योदयाच्चत्वारि अन्यसरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्यो - दयाभावः, मोहनीयस्य सामान्येन नवोदय स्थानानि, तद्यथा-दश नव अष्टौ सप्त षटू पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सवलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादि Jain Education International For Personal & Private Use Only सम्य० ४ उद्देशकः३ ॥ १८९ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy