________________
श्रीआचाराङ्गवृत्तिः (शी०)
काष्ठमुनयस्ते शुष्कगोलकसन्निभा न क्वचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः । इति सम्यक्त्वाध्ययने द्वितीयोद्देशकः समाप्तः ॥ ४-२॥
सम्य०४ उद्देशका
॥१८८॥
___ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकमणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
उवेहि णं बहिया य लोगं, से सव्वलोगंमि जे केइ विण्णू , अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयच्चा धम्मविउत्ति अंजू , आरंभजं दुक्खमिणंति णच्चा, एवमाह संमत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण
मुदाहरंति इय कम्मं परिण्णाय सव्वसो (सू० १३४) योऽयमनन्तरं प्रतिपादितः पाण्डिलोकः एनं धर्माद्वहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथा इति । यः पाण्डिलोकोपेक्षकः स के गुणमवाप्नु
॥१८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org