________________
पूर्ववद, एवमनया दिशा सर्वेऽपि तीथिका वाच्याः, आईतस्तु पुननें कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा वाईतक्षल्लकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थ प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं गृहीत्वा गाथा बभाषे, तद्यथा
खंतस्स दंतस्स जिइंदियस्स, अज्झप्पजोगे गयमाणसस्स ।
किं मज्झ एएण विचिंतएणं?, सकुंडलं वा वयणं न वत्ति ॥ २३१ ॥ सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं न पुनर्व्याक्षेप इत्यतो गाथासंवादात् शान्तिदमजितेन्द्रियत्वा-I ध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्म प्रति भावोल्लासोऽभूत्, क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकईम-15 गोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन् राज्ञोक्तं-किमिति भवान् धर्म पृष्टोऽपि न कथयति?, स चावो|चत्-हे मुग्ध! ननु कथित एव धर्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाहउल्लो सुक्को य दो छूढा, गोलया महियामया। दोवि आवडिया कुडे, जो उल्लो तत्थ (सोऽत्थ) लग्गइ। एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से मुक्कगोलए ॥ २३३ ॥
अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृधुतया साः, सार्द्रतया च संसारपके कर्मकर्दमे वा लगन्ति, ये तु पुनः शान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org