SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ मनैकान्तिकतां दर्शयितुमेतदेव विपर्ययेणाह-'जे परिस्सवा' इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि-अर्हत्साधुतप-४ श्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि, तान्येव कर्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातद्धिरसगारवप्रवणस्यास्रवा भवन्ति-पापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थ संयमस्थानानि तद्वन्धनायासंयमस्थानान्यपि तावन्त्येव, उक्तं च-"यथाप्रकारा यावन्तः, संसारावेशहेतवः। तावन्तस्तद्विपर्यासान्निर्वाणसुखहेतवः ॥१॥" तथाहि-रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्व संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वापत्तिवदिति, सम्यग्दृष्टस्तु विदितसंसारोदन्वतः न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः। पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह-'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, आस्रवेभ्योऽन्येऽनास्रवाः-व्रतविशेषाः, तेऽपि कर्मोदयादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोङ्कणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः-पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानास्रवाः-कर्मबन्धनानि न भवन्ति, यदिवा आस्रवन्तीत्यानवाः, पचाद्यच, एवं परिस्रवन्तीति परिस्रवाः, अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वाविरतिप्रमादकषाययोगैर्य एव कर्मणामास्रवाः-बन्धकाः त एवापरेषां परिस्रवाः-निर्जरकाः, एते च प्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात् , तथा ये आस्रवास्तेऽपरिस्रवा इति शून्योऽयं द्वितीयभङ्गको, बन्धस्य शाटावि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy