SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ १८१ ॥ उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः - इह अनन्तरोदेशके सम्यग्वादः प्रतिपादितः, स च प्रत्यनीकमिथ्यावादव्युदासेनात्मलाभं लभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमत विचारणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रं - 'जे आसवा' इत्यादि, यदिवेह सम्यक्त्वमधिकृतं तच्च सप्तपदार्थश्रद्धानात्मकं तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेन संसारमोक्षकारणे निर्णेतव्ये, तत्र संसारकारणमात्रवस्तग्रहणाच्च बन्धग्रहणं, मोक्षकारणं तु निर्जरा तग्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जै अणासवा ते अपरिस्सवा जे अपरिस्वा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं (सू० १३० ) 'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म्म यैरारम्भैस्ते आस्रवाः, परिः समन्तात्स्रवति - गलति यैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवास्रवाः - कर्म्मबन्धस्थानानि त एव परिस्रवाः - कर्मनिर्जरास्पदानि इदमुक्तं भवति यानि इतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्म्मबन्धहेतुत्वादास्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवाः - निर्जरास्थानानि । सर्ववस्तूना - Jain Education International For Personal & Private Use Only सम्य० ४ उद्देशकः २ ॥ १८१ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy