________________
SROSARO
KAROGRAMMAR
वः केवलज्ञानावलोकेन दृष्टं, ततः शुश्रूषुभिः श्रुतं, लघुकर्मणा भव्यानां मतं, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यक्त्वादिके मत्कथिते यत्नवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह-'समेमाणा' इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गायेनात्यर्थमासेवां कुर्वन्तः तथा 'प्रलीयमानाः' मनोजेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकां जाति प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः॥ यद्येवमविदितवेद्याः साम्प्रतक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्त्तव्यमित्याह
अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते
सया परिकमिजासि तिबेमि (सू० १२९)॥ सम्यक्त्वाध्ययने प्रथमोद्देशकः ४-१॥ अहश्च रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः 'सदा' सर्वकालम् 'आगतं' स्वीकृत 'प्रज्ञानं' सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान् परतीथिकान्वा धर्माद्वहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह-'अप्पमत्ते' इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । इति सम्यक्त्वाध्ययने प्रथमोद्देशकटीका परिसमाप्ता।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org