________________
श्रीआचाराङ्गवृत्तिः (शी०)
SAEXER
॥१८२॥
नाभावित्वाद्, एवं येऽनास्रवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, ते- सम्य०४ षामनास्रवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह-'एए पए' इत्यादि, एतानि-अनन्तरोक्तानि पद्यते-गम्यते येभ्योs
उद्देशकार र्थस्तानि पदानि, तद्यथा-ये आस्रवा इत्यादीनि, परस्य चार्थावगत्यर्थ शब्दप्रयोगादेतत्सदवाच्यानर्थाश्च सम्यग्-अविपर्यासेन बुध्यमानस्तथा 'लोकं' जन्तुगणमास्रवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञया-तीर्थकरप्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगासवोपादानं निर्जरोपादानं चेत्येतच्च ज्ञात्वा को नाम धर्माचरणं प्रति नोद्यच्छेदिति?, कथं प्रवेदितमिति चेत्, तदुच्यते, आस्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिह्नवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावर-1 णीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया यावदर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोसादनतया अशोचनतया अजूरणतया अपीडनतया अपरितापनतया सातावेदनीयं कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, तथाऽनन्तानुबन्ध्युस्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्म बध्यते, महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, 4|१८२॥ प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्कं, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायु
C
IRCASE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org