SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १६८ ॥ मित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह - 'सव्व' मित्यादि, (सर्वं हास्यं तदास्पदं वा | परित्यज्याङ् - मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्म्मवद्वा संवृतगात्रः ) आलीनश्चासौ गुप्तञ्चालीन गुप्तः स एवम्भूतः परिः समन्ताद्व्रजेत् परिव्रजेत् संयमानुष्ठानविधायी भवेदिति । तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति - 'पुरिसा' इत्यादि, यदिवा त्यक्तगृह पुत्र कलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेतदपनोदार्थमाह - 'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो - जन्तुः, पुरुषद्वारामन्त्रणं तु पुरुषस्यै| वोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाSनुशास्यते - यथा हे पुरुष - हे जीव ! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रं, विपर्ययाच्चामित्रः किमिति बहिर्मित्रमि - च्छसि ? - मृगयसे, यतो ह्युपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोह विजृम्भितं यतो महाव्य| सनोपनिपातार्णवपतन हेतुत्वादमित्र एवासौ, इदमुक्तं भवति - आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात्, विपर्ययाच्च विपययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं वाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तत्वादौपचारिक इति, उक्तं हि – “दुप्पंत्थिओ अमित्तं अप्पा सुपत्थिओ अ ते मित्तं । सुहदुक्खकारणाओ १ दुष्प्रस्थितोऽमित्र आत्मा सुप्रस्थितच ते मित्रम् । सुखदुःखकारणात् आत्मा मित्रममित्रश्च ॥ १ ॥ Jain Education International For Personal & Private Use Only शीतो० ३ उद्देशकः ३ ॥ १६८ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy