SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ । अप्पा मित्तं अमित्तं च ॥१॥” तथा-"अप्येकं मरणं कुर्यात् , संक्रुद्धो बलवानरिः । मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् ॥१॥" यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः? किंफलश्चेत्याह जं जाणिजा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा ! अत्ताणमेवं अभिणिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा ! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्म मायाय सेयं समणुपस्सह ( स० ११८) 'य' पुरुषं 'जानीयात्' परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोच्चालयितारम्-अपनेतारं तं जानीयाद् 'दूरालयिक'मिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः-मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह-जं जाणेजे'त्यादि, यं जानीयारालयिकं तं जानीयादुच्चालयितारमिति, एतदुक्तं भवति-यो हि कर्मणां तदास्रवद्वाराणां चोच्चालयिता-अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते-'पुरिसा' इत्यादि, हे जीव! आत्मानमेवाभिनिगृह्य धर्मध्यानाद्वहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम्' अनेन प्रकारेण दुःखात्सकाशादात्मानं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy