________________
र्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह - 'विह्नय कप्पे' इत्यादि, विविधम्- अनेकधा धूतम् - अपनीतमष्टप्रकारं कर्म्म येन स विधूतः कोऽसौ ? कल्पः- आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह - 'निज्झोस' इत्यादि, पूर्वोपचितकर्मणां निज्झषयिता- क्षपकः क्षपयिष्यति वा तृजन्तमेतन्तं वा । कर्मक्षपणायोद्यतस्य च धर्म्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्त संसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति —
का अरई के आणंदे?, इत्थंपि अग्गहे चरे, सव्वं हासं परिच्चज आलीणगुत्तो परिव्व, पुरिसा ! - तुममेव तुमं मित्तं किं बहिया मित्तमिच्छसि ? ( सू० ११७ )
इष्टाप्राप्तिविनाशोत्थो मानसो विकारोऽरतिः, अभिलषितार्थावातावानन्दः, योगिचित्तस्य तु धर्म्मशुक्लध्यानावेशाविष्टब्धध्येयान्तरावकाश स्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते - केयमरतिर्नाम को वाऽऽनन्द इति ?, नास्त्येवेतरजन क्षुण्णोऽयं विकल्प इति । एवं तर्ह्यरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरति विकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह - 'एत्थंपी'त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते 'ग्रहो' गा तात्पर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवति - शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्नि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org