________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १६७ ॥
'न स्मरन्ति' न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति, किं च- अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम् - आगामीत्येतदपि न स्मरन्ति यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तु भाषन्ते - एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् काल| शरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति - " अवरेण पुत्रं किह से अतीतं, किह आगमिस्तं न सरंति एगे । भासन्ति एगे इह माणवाओ, जह स अईअं तह आगमिस्सं ॥ १ ॥" अपरेण - जन्मादिना सार्द्धं पूर्वम् - अतिक्रान्तं जन्मादि न स्मरन्ति, 'कथं वा' केन वा प्रकारेणातीतं सुखदुःखादि, कथं चैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते -किमत्र ज्ञेयं ?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बद्ध्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति यदिवा प्रमादविषयकषायादिना कर्माण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाह - 'नाईय' मित्यादि, तथैव - अपुनरावृत्त्या गतं गमनं येषां ते तथागताः- सिद्धाः, यदिवा यथैव ज्ञेयं तथैव गतं - ज्ञानं येषां ते तथागताः - सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति - अवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः पुनरर्थग्रहणं पर्यायरूपार्थ, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थं विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति वा, के ?, तथागताः - रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति । तन्मा
Jain Education International
For Personal & Private Use Only
शीतो० ३
उद्देशक ३
॥ १६७ ॥
www.jainelibrary.org