SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 'आसामाद्यैन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा बोद्धव्या इति ॥ आसामेव स्वरूपनिरूपणायाह दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दुणि ॥ ४४ ॥ चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतस्र एकप्रदेशरचनात्मिकाः 'अनुत्तरा' वृद्धिरहिताः, ऊर्द्धाधोदिगद्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ॥ किञ्च - अंतो साईआओ बाहिरपासे अपज्जवसिआओ । सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा ॥ ४५ ॥ सर्वाऽप्यन्तः - मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दशाप्यनन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्मत्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापह्रियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तत्प्रदेशात्मिकाश्च दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते तथा चागमः - "कई णं भंते! जुम्मा पण्णत्ता ? गोयमा ! चत्तारि जुम्मा पण्णत्ता, तंजहा - कडजुम्मे तेउए दावरजुम्मे कलिओए । से केणट्ठेणं भंते ! एवं वुच्चइ ?, गोयमा ! जे णं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया से णं कडजुम्मे, एवं तिपज्जवसिए तेउए, दुपज्जवसिए दावरजुम्मे, एगपज्जवसिए कलिओए "त्ति ॥ पुनरप्यासां संस्थानमाह - १ कति भदन्त ! युग्माः प्रज्ञप्ताः ?, गौतम ! चत्वारो युग्माः प्रज्ञप्ताः, तद्यथा कृतयुग्मः त्र्योजः द्वापर युग्मः कल्योजः । अथ केनार्थेन भदन्तैवमुच्यते ?, गौतम ! योराशिचतुष्ककापहारेणापहियमाणोऽपहियमाणञ्चतुष्पर्यवसितः स्यात् स कृतयुग्मः, एवं त्रिपर्यवसितख्योजः, द्विपर्यवसितो द्वापर युग्मः, एकपर्यवसितः कल्योजः • Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy