________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं१ उद्देशक
| नाम ठवणा दविए खित्ते तावे य पण्णवग भावे। एस दिसानिक्खेवो सत्तविहो होइ णायव्वो॥४०॥
नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः, तत्र सचित्तादेव्यस्य दिगित्यभिधानं नामदिक्, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् । द्रव्यदिग्निक्षेपार्थमाह
तेरसपएसियं खलु तावइएसुंभवे पएसेसुं। जं व्वं ओगाढं जहण्णयं तं दसदिसागं॥४१॥
द्रव्यदिग् द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता तात्वियम्-त्रयोदशप्रदेशिकं द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक्, न पुनईशप्रदेशिकं यत्
कैश्चिदुक्तमिति, प्रदेशाः-परमाणवस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यं द्रव्यमाश्रित्य दशदिविभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२)। त्रिबाहुकं नवप्रदेशिकमभिलिख्य चतसृषु दिवेकैकगृहवृद्धिः कार्या ॥ क्षेत्रदिशमाह| अट्ठ पएसो रुयगो तिरियं लोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥४२॥
तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेज़न्तद्वौं सर्वक्षुल्लकातरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव-उत्पत्तिस्थानमिति । स्थापना (३)। आसामभिधानान्याह
इंदग्गेई जम्मा य नेरुती वारुणी य वायव्वा । सोमा ईसाणावि य विमला य तमा य बोद्धव्वा ॥४३॥
॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org