SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ जातिः - प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च 'पश्य' अवलोकय, इदमुक्तं भवति जायमानस्य यद्दुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च - "जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥ १ ॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो ॥ २ ॥" तथा - 'हीणभिण्णसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दसं ॥ ३ ॥' इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य ! जातिं वृद्धिं च तत्कारणं कर्म्म कार्यं च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किं चापरं - 'भूएहि 'मित्यादि, भूतानि - चतुर्दशभूतग्रामास्तैः सममात्मनः सातं सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि - यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च - " यथेष्टविषयाः सातमनिष्ठा इतरत्तव । अन्यत्रापि विदित्वैवं न कुर्यादप्रियं जने ॥ १ ॥ " यद्येवं ततः किमित्याह - ' तम्हा' इत्यादि, 'तस्माद्' जातिवृद्धिसुखदुःखदर्शनादतीव विद्या- तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स १ जायमानस्य यद्दुःखं म्रियमाणस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥ १ ॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति । मातुरात्मनोऽपि च वेदनामतुलां जनयन् ॥ २ ॥ हीनभिन्नखरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितो वसति संप्राप्तः चरमां दशाम् ॥ ३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy