________________
श्रीआचाराङ्गवृत्तिः (शी०)
| शीतो०३ उद्देशकः२
॥१५९॥
| 'परमं मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदशी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह
उम्मुंच पास इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा निचयं क
रंति, संसिच्चमाणा पुरिति गभं ॥२॥ 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्त्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशमुत्-प्राबल्येन 'मुञ्च' अपाकुरु, स हि कामभोगलालसस्तदादानहेतोहिँसादीनि पापान्यारभते अतोऽपदिश्यते-'आरंभ' इत्यादि, आरम्भेण जीवितुं शीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहपरिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किं च कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धाः-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-'संसिच्च' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभृतात्मा किंभूतो भवतीत्याह- . ___ अवि से हासमासज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्वेइ अप्पणो॥३॥ हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य 'स' कामगृभुर्हत्वाऽपि प्राणिनो 'नन्दी'ति क्रीडेति मन्यते,
तात्मा किभाभान्तरमुपयान्ति, त्याह-संसिञ्च' इत्यमा इच्छामदनरूपा
॥१५९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org