SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ मोहितं लोक मानो वा तत्कमपदेशं च सर्वनवृत्ति विदध्याति - श्रीआचा- ४ हिंसायां' क्षणनं-हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत् , पाठान्तरं वा 'कम्ममाहूया रामवृत्तिः जं छणं' य उपादानक्षणोऽस्य कर्मणः तत्क्षणं काहूय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद्, इदमुक्तं भवति-अ(सी०) ज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोनिवृत्ति विदध्यादिति, उद्देशक पुनरप्युपदेशदानायाह-'पडिलेहिअ' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्व 'समादाय' गृहीत्वा ॥१५८॥ अन्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा तत्कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्त्वा च 'लोकसंज्ञा विषयपिपासासंज्ञितां धनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषदुर्ग वाऽष्टप्रकारं वा कर्मावष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् । इति शीतोष्णीयाध्ययनप्रथमोद्देशकटीका समाप्ता ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्जाइं च बुद्धिं च इहऽज्ज ! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविजे परमंति ॥१५८॥ णच्चा, संमत्तदंसी न करेइ पावं ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy