________________
SAASAASASARAN
ततस्त्रयोदशनाम्नि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्षयमुपगते शेषनाम्नि अन्त्यसमये नवसत्कम्मतास्थानं, ताश्च वेद्यमाना नवेमाः, तद्यथा-मनुजगति १ पञ्चेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यश-कीर्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां विभ्रति, शेषास्तु एकसप्ततिः सप्तपष्टिा द्विचरमसमये क्षयमुपयान्ति, एता एव नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मतास्थानमिति । सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथा| उच्चनीचगोत्रसद्भावे सत्येकं सत्कर्मतास्थानं, तेजोवायूच्चैर्गोत्रोद्वलने कालंकलीभावावस्थायां नीचैर्गोत्रसत्कर्मतेति द्वितीयं, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किं च
कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिनाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिजासि (सू० ११०)।
त्तिबेमि ॥ शीतोष्णीयोद्देशः १॥ कर्मणो मूलं-कारणं मिथ्यात्वाविरतिप्रमादकपाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य 'यत्क्षण'मिति 'क्षणु
व सति विजाचर्गोत्रक्षये वायुचर्गोत्रो सामान्येन वानव अतीव शैलेश्यन्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org