SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १५७ ॥ | मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । आयुषो द्वे सत्कर्म्मतास्थाने सामान्येन, तद्यथा - परभवा| युष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्बन्धाभाव इति । नाम्नो द्वादश सत्कर्म्मतास्थानानि, तद्यथा - त्रिन वतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ पट्सततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः - गतयश्चतस्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ | पश्च सङ्घाताः ५ बन्धनानि पश्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि षट् ६ वर्णपञ्चकं ५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलघूपघातपराघातोच्छ्रासातपोद्योताः षट् ६ प्रशस्तेतर विहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्त कस्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीर सङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोद्बलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बनतः तद्गत्यानुपूर्वीद्वय वैक्रियचतुष्कबन्ध कस्य पडशीतिः देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोद्वलनेऽशीतिः ८०, पुनर्मनुष्यगत्यानुपूर्वीद्वयोद्बलनेऽष्टसततिः ७८, एतान्यक्षपकाणां सत्कर्म्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा - त्रिनवतेर्न र कतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्म साधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनै कोननवतिः सञ्जाता Jain Education International For Personal & Private Use Only शीतो० ३ उद्देशकः १ ॥ १५७ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy