________________
धसत्कर्मता। दर्शनावरल्यानकेषु गुणस्थानकेषु च मयाविधानमुच्यते-तत्र ज्ञानाहरणकालीयां शैले-/
REARRACCESTEALESALES
पकश्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा, ततः शेषघातित्रये क्षीणे चतविधभवोपग्राहिसत्कर्मा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतो देशानां पूर्वकोटिं यावत्, पुनरूद्वै पञ्चहस्वाक्षरोद्गिरणकालीयां शैलेश्यवस्थामनुभूयाका भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्मताविधानमुच्यते-तत्र ज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविकल्पाभावात् पञ्चविधसत्कर्मता। दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा-नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित्सङ्ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाच्चतु:सत्कर्मतास्थानं, तस्यापि क्षयः क्षीणकषायकालान्त इति । वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि सातासाते इत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयं २। मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा-पोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोबलने सम्यगमिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोदलनेऽनादिमिथ्यादृष्टेर्वा पड्रिंशतिः ३, सम्यग्दृष्टेरष्टाविंशतिसत्कमणोऽनन्सानुबन्ध्युद्धलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, क्षायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्यादिषटक्षये पञ्च ११, पुंवेदाभावे चत्वारि १२, सज्वलनक्रोधक्षये त्रयः १३, मानक्षये द्वौ १४,
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org