________________
शीतो०३ उद्देशकः१
श्रीआचा- शस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममयशस्त्रभूतमात्मपरोपकारिणं वेत्ति, शस्त्राशस्त्रे च जानानस्तत्राप्तिपरिहारौ विराङ्गवृत्तिः धत्ते, एतत्फलत्वात् ज्ञानस्येति, यदिवा शब्दादिपर्यायेभ्यस्तजनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि (शी०) कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोक्तादेव
हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च संयमतपःखेदज्ञस्यास्रवनिरो॥१५६॥
धादनादिभवोपात्तकर्मक्षयः। कर्मक्षयाच्च यद्भवति तदप्यतिदिशति-'अकम्मस्स' इत्यादि, न विद्यते काष्टप्रकारमस्येत्यका तस्य 'व्यवहारो न विद्यते' नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग भवति । यश्च सकर्मा स नारकादिव्यपदेशेन व्यपदिश्यत इत्याह-कम्मुणा' इत्यादि, उपाधीयते-व्यपदिश्यते येनेत्युपाधिः-विशेषणं स उपाधिः कर्मणा-ज्ञानावरणीयादिना जायते, तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुदर्शनी अचक्षुदर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान्न
पुंसकः कषायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तिकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो नीचैगोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा
संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्त्तव्यमित्याह–'कम्मं च इत्यादि, कर्म-ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य बन्धं वा प्रकृतिस्थित्यनुभावप्रदेशात्मक पर्यालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा-अष्टविधसत्कर्मापूर्वादिकरणक्ष
MORRORSAAMSANSAMS
॥१५६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org