SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ त्यादि, हे मतिमन् ! - सश्रुतिक ! भावसुतातुरान् पश्य, मत्वा चैतज्जाग्रत्सुप्तगुणदोषापादनं मा स्वापमतिं कुरु, किं च - 'आरंभ' मित्यादि, आरम्भः - सावद्यक्रियानुष्ठानं तस्माज्जातमारम्भजं, किं तद् ? - दुःखं तत्कारणं वा कर्म । 'इद' मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह - 'माई' इत्यादि, मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणं, | तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह - 'उवेह' इत्यादि, बहुवचननिर्देशादाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः - अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः ख्यादिपदार्थान्यथाग्रहणाद्वक्रः, किं च-स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की- मरणादुद्विजंस्तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोतीत्याह - 'अप्पमत्त ' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् । कश्चाप्रमत्तः स्याद् ?, य कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति - 'उवरओ' इत्यादि, उपरतो मनोवाक्कायैः कुतः ? - पापोपादानकर्म्मभ्यः कोऽसौ ? - वीरः, किम्भूतो ? - गुप्तात्मा, कश्च गुप्तो भवति ?, यः खेदज्ञो, यश्च खेदज्ञः स कं गुणमवाप्नुयादित्याह - 'जे पज्जव' इत्यादि, शब्दादीनां विषयाणां पर्यवाःविशेषास्तेषु - तन्निमित्तं जातं शस्त्रं पर्यवजातशस्त्रं - शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत्पर्यवजात शस्त्रं तस्य पर्यवजात शस्त्रस्य यः खेदज्ञो - निपुणः सोऽशस्त्रस्य - निरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्चाशस्त्रस्य संयमस्य | खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति - यः शब्दादिपर्यायानिष्टानिष्टात्मकान् तत्प्राप्तिपरिहारानुष्ठानं च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy