SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ | ल्याणास्पदीभवति । अत्र च सुप्तासुप्ताधिकारगाथाः – “जागरह णरा णिच्चं जागरमाणस्स बढए बुद्धी । जो सुअइ न सो धण्णो जो जग्गइ सो सया धन्नो ॥ १ ॥ सुअर सुअंतस्स सुअं संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुअं | थिरपरिचिअमप्पमत्तस्स ॥ २ ॥ नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरग्गं पमाएणं, नारंभेण दयालुया ॥ ३ ॥ जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ । वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए ॥ ४ ॥ सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं । होहिइ गोणब्भूओ नहंमि सुए अमयभूए ॥ ५ ॥” तदेवं दर्शनावरणीयकर्म्मविपाकोदयेन क्वचित्स्वपन्नपि यः संविग्नो यतनावांश्च स दर्शनमोहनीय महानिद्रापगमाज्जाग्रदवस्थ एवेति । ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं, दुःखं च जन्तूनामहितायेति दर्शयति लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सदा य रुवाय रसाय गंधा य फासा य अभिसमन्नागया भवंति (सू० १०६) 'लोके' षड्जीवनिकाये 'जानीहि ' परिच्छिन्द्या दुःखहेतुत्वाद्दुःखम् - अज्ञानं मोहनीयं वा तदहिताय - नरकादिभ १ जागृत नरा नित्यं जाग्रतो वर्धते बुद्धिः । यः स्वपिति न स धन्यः यो जागर्ति स सदा धन्यः ॥ १ ॥ स्वपिति खपतः श्रुतं शङ्कितस्खलितं भवेत्प्रमत्तस्य । जागरतः श्रुतं स्थिरपरिचितमप्रमत्तस्य ॥ २ ॥ नालस्येन समं सौख्यं न विद्या सह निद्रया । न वैराग्यं प्रमादेन नारम्भेण दयालुता ॥ ३ ॥ जाग्रत्ता धर्मिणां अधर्मिणां तु सुप्तता श्रेयसी । वत्साधिपभगिन्या अकथयत् जिनो जयन्त्याः ॥ ४ ॥ खपिति चाजगरभूतः श्रुतमपि तस्य नश्यत्यमृतभूतम् । भविष्यति गोभूतो नष्टे श्रुतेऽमृतभूते ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy