________________
(शी०)
श्रीआचा-| उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति ?, यतः स्त्यानर्द्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धि-18| शीतो०३ राङ्गवृत्तिः कस्यापि न भवति, तद्वन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिवृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते
18 उद्देशकः१ भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः। यथा ॥१५२॥
च द्रव्यसुप्तो दुःखमवाप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह
जह सुत्त मत्त मुच्छिय असहीणो पावए बहुं दुक्खं । तिव्वं अपडियारंपि वट्टमाणो तहा लोगो ॥२१३ ॥ सुप्तो निद्रया मत्तो मदिरादिना मूछितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवाप्नोति, तथा भावस्वापे-मिथ्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकभवादिकं दुःखमवामोतीति गाथार्थः॥ पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाह
एसेव य उवएसो पदित्त पयलाय पंथमाईसुं। अणुहवइ जह सचेओ सुहाई समणोऽवि तह चेव ॥ २१४ ॥ ना 'एष एवं पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि-सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनु
भवति, पथिविषये च सापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति, यथा विवेकी ॥१५२॥ सुखेनैव तमपायं परिहरन् सुखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाजाग्रदवस्थामनुभवन् समस्तक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org