________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १५३ ॥
वव्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत - द्रव्यभावस्वापादज्ञानरूपाद्दुःखहेतोरपसर्पणमिति, किं चान्यत् - 'समय' मित्यादि, समयः - आचारोऽनुष्ठानं तं लोकस्यासुमद्रातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धो, लोको हि भोगाभिलाषितया प्राण्युपमर्दादिकषायहेतुकं क |म्मपादाय नरकादियातनास्थानेषूत्पद्यते, ततः कथञ्चिदुद्वृत्त्यावाप्य चाशेषक्लेशनातनं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते येन येनाधोऽधो व्रजति, संसारान्नोन्मज्जतीति, अयं लोकाचारस्तं ज्ञात्वा, अथवा समभावः समता तां ज्ञात्वा 'लोकस्ये' ति सप्तम्यर्थे षष्ठी, ततश्चायमर्थो — 'लोके' जन्तुसमूहे 'समता' समशत्रुमित्रतां समात्मपरतां वा ज्ञात्वा यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विप इत्येवम्भूतां समतां ज्ञात्वा किं कुर्यादित्याह - ' एत्थ सत्थोवरए', 'अत्र' अस्मिन् षटूकायलोके शस्त्राद्रव्यभावभेदादुपरतो धर्म्मजागरणेन जागृहि यदिवा यद्यत्संयमशस्त्रं प्राणातिपाताद्यास्रवद्वारं शब्दादिपञ्चप्रकाकामगुणाभिष्वङ्गो वा तस्माद्य उपरतः स मुनिरिति, आह च - 'जस्सिमे' इत्यादि, यस्य मुनेरिमे - प्रत्यात्मवेद्याः | समस्त प्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदभिन्ना 'अभिसमन्वागता' इति, अभिः-आभिमुख्येन सम्यग् - इष्टानिष्टावधारणतयाऽन्विति - शब्दादिस्वरूपावगमात् पश्चादागताः - ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति - इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं तेषां नान्यदिति, यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्परलोक इति उक्तं च - " रक्तः शब्दे हरिणः स्पर्शे
Jain Education International
For Personal & Private Use Only
शीतो० ३ उद्देशकः १
॥ १५३ ॥
www.jainelibrary.org