SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं सा नो जायत इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिक पदाभावादप्रकटनम् । इदानीं चालना - ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थ नोशब्देन प्रतिषेधः इति ?, अत्र प्रत्यवस्था, सत्यमेवं, किंतु प्रेक्षापूर्व कारितया नोशब्दोपादानं, सा चेयम् अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न | घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः – “कइ णं भंते ! सण्णाओ पणत्ताओ ?, गोयमा ! दस सण्णाओ पण्णत्ताओ, तंजहा - आहारसण्णा भयसण्णा मेहुण सण्णा परिग्गहसण्णा को हसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण" त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि-नोघट इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रंसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम् — “प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः । स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ॥ १ ॥” इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति ॥ साम्प्रतं निर्युक्तिकृत्सूत्रावयवनिक्षेपार्थमाह १ कति भदन्त ! संज्ञाः प्रज्ञप्ताः ?, गौतम! दश संज्ञाः प्रज्ञप्ताः, तद्यथा - आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा क्रोधसंज्ञा मानसंज्ञा मायासंज्ञा लोभसंज्ञा ओघ संज्ञा लोकसंज्ञा. २ ० के घटाभावमात्रं प्रतीयते अर्थप्रसकनिषेधेन चाप्रसक्तस्य प्र. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy