________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं १ उद्देशकः१
॥१२॥
AF%25223
दव्वे सचित्ताई भावेऽणुभवणजाणणा सण्णा। मति होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता॥३८॥ | संज्ञा नामादिभेदाच्चतुर्दा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तेन हस्तादिद्रव्येण पानभोजनादिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञान-संज्ञा अवगम इतिकृत्वा, भावसंज्ञा पुनर्द्विधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वात्तावत् ज्ञानसंज्ञा दर्शयति-'मइ होइ जाणणा पुण'त्ति मननं मतिः-अवबोधः सा च मतिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च षोडशभेदेति दर्शयति
आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा। कोह माण माय लोहे सोगे लोगेय धम्मोहे ॥३९॥ __ आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकर्मोदयादसातोदयाच्च भवति, भयसंज्ञा त्रासरूपा, परिग्रहसंज्ञा मूर्छारूपा, मैथुनसंज्ञा स्यादिवेदोदयरूपा, एताश्च मोहनीयोदयात् , सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयो|दयजे, मोहसंज्ञा मिथ्यादर्शनरूपा मोहोदयात् , विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयात् ज्ञानावरणीयोदयाच्च, क्रोधसंज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोकसंज्ञा विप्रलापवैमनस्यरूपा, एता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा-न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवाः, काकाः पितामहाः, बहिणां पक्षवातेन गर्भ इत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच्च भवति, धर्मसंज्ञा क्षमाद्यासेवनरूपा मोहनीयक्षयोपशमाजायते, एताश्चाविशेषोपादानात्पश्चेन्द्रियाणां सम्यग्मिथ्यादृशां
**%A8
॥१२॥
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org