________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ११ ॥
॥ सुयं मे आउ ! तेणं भगवया एवमक्खायं - इहमेगेसिं णो सण्णा भवइ ( सू० १ )
सुत्तं अहि य गुणेहिं उववेयं ॥ १ ॥ इत्यादि, तच्चेदं सूत्रम् — 'सुयं मे आउसं! तेणं भगवया एवमक्खायं - इहमेगेसिं णो सण्णा भवति' अस्य संहितादिक्रमेण व्याख्या -संहितोच्चारितैव, पदच्छेदस्त्वयम् - श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते - भगवान् सुधर्म्मस्वामी जंबूनाम्न इदमाचष्टे यथा- 'श्रुतम्' आकर्णितमवगतमवधारितमितियावद्, अनेन स्वमनीषिकान्युदासो, 'मयेति साक्षान्न पुनः पारम्पर्येण 'आयुष्मन्निति जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुगोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा — आमृशता भगवत्पादारविन्दम्, अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति एतच्चार्थद्वयं 'आमुसंतेण आवसंते'त्येतत्पाठान्तरमाश्रित्यावगन्तव्यमिति, 'भगवते 'ति भगः - ऐश्वर्य्यादिषडर्थात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव' मिति वक्ष्यमाणविधिना 'आख्यात' मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, 'इहे'ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा 'इहे' ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा
Jain Education International
१ चूर्ण्यभिप्रायेण द्वितीयसूत्रावतरणमेतत्.
२ पत्ते पत्ते ( गणहरा) सिस्सेहिं पज्जुवासिज्जमाणा एवं भणति - 'सुयं मे० (इति चूर्णिः).
For Personal & Private Use Only
अध्ययनं १
दशकः १
॥ ११ ॥
www.jainelibrary.org