________________
तत्र द्रव्यपरिज्ञा द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, ज्ञपरिज्ञा आगमनोआगमभेदाविधा, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्विधा, तत्र व्यतिरिका द्रव्यपरिज्ञा यो यत् द्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिक्षेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम् , उपकरणं च रजोहरणादि, साधकतमत्वात् , भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमतस्त्विदमेवाध्ययनं ज्ञानक्रियारूपं, नोशब्दस्य मिश्रवाचित्वात् , प्रत्याख्यानभावपरिज्ञापि तथैव, आगमतः पूर्ववत्, नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा मनोवाकायकृतकारितानुमतिभेदात्मिका ज्ञेयेति । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिराख्यायते-यथा कश्चिद्राजा अभिनवनगरनिवेशेच्छया भूखण्डानि विभज्य समतया प्रकृतिभ्यो दत्तवान् , तथा कचवरापनयने शल्योद्धारे भूस्थिरीकरणे पक्वेष्टकापीठप्रासादरचने रत्नाद्युपादाने चोपदेशं दत्तवान्, ताश्च प्रकृतयस्तदुपदेशानुसारेण तथैव कृत्वा यथाऽभिप्रेतान् भोगान् बुभुजिरे, अयमत्रार्थोपनयः-राजसदृशेन सूरिणा प्रकृतिसदृशस्य शिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः, तं च सामायिकसंयम स्थिरीकृत्य पक्वेष्टिकापीठतुल्यानि व्रतान्यारोपणीयानि,
ततः प्रासादकल्पोऽयमाचारो विधेयः, तत्रस्थश्चाशेषशास्त्रादिरत्नान्यादत्ते, निर्वाणभाक् भवति । साम्प्रतं सूत्रानुगमेडटू स्खलितादिगुणलक्षणोपेतं सूत्रमुच्चारणीयं, लक्षणं त्विदम्-'अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं
१ अल्पग्रन्थं महाथ द्वात्रिंशद्दोषविरहितं यच । लक्षणयुक्तं सूत्रमष्टभिश्च गुणैरुपपेतम् ॥ १॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org