SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ वराओ जेमणकाले न चाएइ ॥१॥" अत्र मम्मणवणिग्दृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्ततत्करोति येनात्मनो वैरानुषङ्गो जायत इति, आह च-'पुणो तं करेई'त्यादि, मायावी परवञ्चनबुद्ध्या पुनरपि ततलोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तं च-"दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः ॥१॥" किं पुनः कारणमसुमांस्तत्करोति येनात्मनो वैरं वर्द्धते?, इत्याह-'जमिणं' इत्यादि, 'यदिति यस्मादस्यैव-विश-18 रारोः शरीरकस्य परिबृंहणार्थ प्राणघातादिकाः क्रियाः करोतीति, ते च तेनोपहताः प्राणिनः पुनः शतशो नन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयतीति, यदिवा यदिदं मयोपदेशप्रायं पौनःपुन्येन कथ्यते तदस्यैव संयमस्य परिबृंहणार्थम्, इदं चापरं कथ्यते–'अमराय' इत्यादि, | अमरायतेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ ?-'महाश्रद्धी' महती चासौ |श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा, अत्रोदाहरणं-राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलेपान्महती दुःखासिकाऽभूत्, ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायि-किं भवत्या दुःखासिका कारणं ?, केन दावा सार्द्धमुषितेति, सा त्ववादीद्-अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy