________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः५
॥१३९॥
KAALCARRARAM
प्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता अजरामरवक्रियासु प्रवर्त्तन्त इति । यश्चामरायमाणः कामभोगाभिलाषुकः स किंभूतो भवतीत्याह-'अट्ट' इत्यादि, अतिः-शारीरमानसी पीडा तत्र भव आर्तस्तमार्त्तममरायमाणं कामार्थ महाश्रद्धावन्तं 'प्रेक्ष्य' दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयं इति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते -'अपरिण्णाएं' इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा 'क्रन्दते' भोगेष्वप्राप्तनष्टेषु कालाशोकावनुभवतीति, उक्तं च-"चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतृप्तिः । द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति ॥ १ ॥” इत्यादि । तदेवमनेकधा कामविपाकमुपदर्य उपसंहरति
से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवि य णं करेइ, अलं बा
लस्स संगेणं, जे वा से कारइ बाले, न एवं अणगारस्स जायइ (सू० ९५) त्तिवेमि ॥ 'से'त्ति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्मात्तजानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कणे कुरुतेति भावार्थः। ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्ध्यत्येवेत्येतदाशङ्कयाह-तेइच्छ' इत्यादि, कामचिकित्सां 'पण्डितः' पण्डिताभिमानी प्रवदन्नपरव्याधिचिकित्सामिवोपदिशन्नपरः-तीर्थको जीवोपमर्दे
॥१३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org