________________
IDIA
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशक ५
॥१३८॥
SCRECAUSESAMSAROSASSASR
विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादवांश्चेहैव शान्ति न लभते, यत आह-'कासंकासे' इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवत्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च-"इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् । चिन्तयन्निह कार्याणि, प्रेत्यार्थ नावबुध्यते ॥१॥" अत्र दधिघटिकाद्रमकद्रष्टान्तो वाच्यः, स चाय-द्रमकः कश्चित् क्वचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योसत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवंचिन्तामनोरथव्याकुलीकृतान्तःकरण इति तद्दद्ध्यानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासंकसः-किंकत्तेव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तं कषतीति-तदभिमुखो यातीति कासंकषः, यो ज्ञाना| दिप्रमादवान् वक्ष्यमाणो वेत्याह-'बहमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूढ' करणं कृतं तेन मूढः[किंकर्त्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि-"सोउं सोवणकाले मजणकाले य मजिउं लोलो। जेमेउं च
१ खपितुं शयनकाले मजनकाले च मङ्गु लोलः (चपलः) । जेमितुं च वराको जेमनकाले न शक्नोति ॥१॥
मा॥१३८॥
For Personal & Private Use Only
www.jainelibrary.org
dain Education International