________________
हिरण्हारुवणद्ध कलमलयमेयमज्जासु । पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ १ ॥ संचारिमजंतगलंतवच्च मुत्तंत सेअपुण्णंमि । देहे हुज्जा किं रागकारणं असुइहेउम्मि ? ॥ २ ॥" इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि स्रव - न्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह -
'से मइमं परिन्नाय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वड्ढेइ अप्पणो, जमिणं परिकहिज्ज इमस्स चेव पडिवूहणयाए, अमरा य महासड्डी अट्टमेयं तु पेहाए अपरिण्णाए कंदइ (सू० ९४ )
'स' पूर्वोक्को यतिर्मतिमान् श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह - 'मा य हु' इत्यादि, 'मा' प्रतिषेधे चः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला - अत्रुट्यम्मुखश्लेष्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किं च' मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्ये प्रतिकूलतां मा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org