________________
श्रीआचा
लोक.वि.२
राङ्गवृत्तिः (शी०)
उद्देशक:५
॥१३७॥
बद्धान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वाचोयुक्त्याऽऽचष्टे'जहा अंतो तहा बाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पुत्रकलत्रादि बाह्यमपि, यथा वा बाह्य बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा-कथमसौ मोचयतीति चेत्तत्त्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह-'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः-मध्ये अमेध्यकललपिशितासृक्प्रत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तं च-“यदि नामास्य कायस्य,
यदन्तस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् ॥ १ ॥” इति, यथा वा बहिरसारता तथाऽतान्तरपीति । किं च–'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् 'देहान्तराणि' देहस्या
वस्थाविशेषान् , इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति' यथावस्थितानि परि|च्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति–'पुढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां योगपोनापि स्रवन्ति नवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति । यद्येतानि ततः किं ?-पंडिए पडिलेहाए' एतान्येवंभूतानि गलच्छोतोत्रणरोमकूपानि 'पण्डितः' अवगततत्त्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तं च-"मंसहिरु
१ मांसास्थिरुधिरनाय्ववनद्धकल्मषमेदमज्जाभिः । पूर्णे चर्मकोशे दुर्गन्धेऽशुचिबीभत्से ॥ १॥ संचारक(श्रवत् )यन्त्रगलद्व!मूत्रान्तस्वेदपूर्णे । देहे भवेत् किं रागकारणं अशुचिहेतौ ॥ २॥
SGAROCESSOCCCC
॥१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org