________________
तरिअब्बो महोअही ॥ १॥ वालमा दुरतिमा इति प्रागभ्यधायि तमाम अयम्' इत्यध्यक्षः
वितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम्-आयुष्क तत् क्षीणं सत् 'दुष्प्रतिबृंहणीयं' दुरभावार्थे, नैव वृद्धिं नीयते इतियावत् , अथवा जीवितं-संयमजीवितं तदुष्प्रतिबृंहणीयं, कामानुषक्तजनान्तर्वर्त्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च- आगासे गंगसोउव्व, पडिसोउब्व दुत्तरो। बाहाहिं चेव गंभीरो, तरिअब्बो महोअही ॥१॥ वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥२॥” इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह'कामकामी' इत्यादि, कामान् कामयितुम्-अभिलषितुं शीलमस्येति कामकामी 'खलु' वाक्यालङ्कारे 'अयम्' इत्यध्यक्षः 'पुरुषः' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःखविशेषाननुभवतीति दर्श-IP यति-से सोयईत्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च-“गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि! गतांस्तांश्च दिवसान , न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ १॥" इत्यादि शोचते, तथा 'जूरइ'त्ति हृदयेन खिद्यते, तद्यथा-"प्रथमतरमथेदं चिन्तनीयं तवासीद्बहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय ! निराश! क्लीव! संतप्यसे किं?, न हि जडगततोये सेतुबन्धाः क्रियन्ते ॥१॥"
१ आकाशे गङ्गाश्रोत इव, प्रतिश्रोत इव दुस्तरः । बाहुभ्यामेव गम्भीरस्तरीतव्यो महोदधिः ॥१॥ वालुकाकवल इव, निराखाद एव संयमः । यवा लोहमया एव, चर्वयितव्याः सुदुष्करम् ॥२॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org