________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १३६ ॥
इत्येवमादि, तथा 'तिप्पइ'त्ति 'तिपृ तेपृ प्रक्षरणार्थौ' तेपते क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीतियावत्, तथा शारीरमान सैर्दुःखैः पीड्यते, तथा परिः समन्ताद्वहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् क्वचिद्गते स मया नानुवर्त्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयः परिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धम्र्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च- “भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ १ ॥” तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च - "सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्म्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १ ॥" इत्यादि ॥ कः पुनरेवं न शोचत इत्याह
Jain Education International
आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ उड्डुं भागं जाणइ तिरियं भागं जाण, गड्डिए लोए अणुपरियहमाणे, संधिं विइत्ता इह मच्चिएहिं, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो
For Personal & Private Use Only
लोक. वि. २
उद्देशक: ५
॥ १३६ ॥
www.jainelibrary.org