________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥१३५॥
MAGASSARAMAGAG
शौद्धोदनिं ध्वजीकृत्य प्रकाशितः, इत्यनया दिशा अन्येऽपि परिहार्या इति । इह तु स्वशास्त्रगौरवमुत्सादयितुमायः लोक.वि.२ प्रवेदित इत्युक्तम् , अस्मिंश्चार्यप्रवेदिते मार्गे प्रयत्नवता भाव्यमिति, आह च-'जहेत्थ' इत्यादि, लब्ध्वा कर्मभूमि
8 उद्देशका मोक्षपादपबीजभूतां च बोधिं सर्वसंवरचारित्रं च प्राप्य तथा विधेयं यथा 'कुशलो' विदितवेद्यः 'अत्र' अस्मिन्नार्यप्रवे६ दिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति । एवं चोपलिम्पनं भवति यदि यथोक्तानुष्ठानविधायित्वं न
भवति, सतां चायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासं यावद्विधेयमिति, उक्तं च-"लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥” इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अश्रावीति ॥ परिग्रहादात्मानमपसर्पयेदित्युक्तं, तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः | कामाः, तेषां चोच्छेदोऽसुकरो, यत आह____ कामा दुरतिकमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ
तिप्पइ परितप्पइ (सू० ९२) कामा द्विविधाः-इच्छाकामा मदनकामाश्च, तत्रेच्छाकामा मोहनीयभेदहास्यरत्यद्भवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणं, तत्सद्भावे च न कामोच्छेद इत्यतो||॥१३५॥ दुःखेनातिक्रमः-अतिलघनं विनाशो येषां ते तथा, ततश्चेदमुक्कं भवति-न तत्र प्रमादवता भाव्यं । न केवलमत्र जी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org