SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ न परिग्रहो धम्र्म्मोपकरणम् ?, उक्तं च- "ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशःसुखपिपासितैरयमसावनर्थोत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ १ ॥” नैष दोषः, न हि धम्मोंपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः - “अवि अप्पणोऽवि देहंमि, नायरंति ममाइडं", यदिह परिगृहीतं कर्म्मबन्धायोपकल्पते स परिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एव न भवतीति । आह चअन्ना णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोव - लिंपिज्जासि तिमि (सू० ९१ ) णमिति वाक्यालङ्कारे, ‘अन्यथे'त्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत्, यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः तथाहि अयमस्याशयः - आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धम्र्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तं च - " साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥ १ ॥” अत्र चाहताभासैर्बोटिकैः | सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्रायेणापि सिसाधयिषुराह - 'एस मग्गे' इत्यादि, धम्र्मोपकरणं न परिग्रहायेत्येषः - अनन्तरोक्तो मार्गः आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः - तीर्थकृतस्तैः 'प्रवेदितः' कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलिखातिपुत्राभ्यां १ अप्यात्मनोऽपि देहे नाचरन्ति ममायितुम्. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy