________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥ १३४ ॥
भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह- ' से जहेयं' इत्यादि, तद्यथा - इदमुद्देशका|देरारभ्यानन्तरसूत्रं यावद्भगवता - ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परिषदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं' प्रतिपादितं सुधर्म्मस्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत् - 'लाभो 'त्ति इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो ! अहं लब्धिमानित्येवं मदं न विदध्यात् न च तदभावे शोकाभि भूतो विमनस्को भूयादिति, आह च- 'अलाभो'त्ति इत्यादि, अलाभे सति शोकं न कुर्यात्, कथं ? - धिग्मां मन्दभाग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च- "लभ्यते लभ्यते साधु, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिर्लब्धे तु प्राणधारणम् ॥ १ ॥" इत्यादि, तदेवं पिण्ड| पात्रवस्त्राणामेषणाः प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह - 'बहुपी' त्यादि, 'बहुपि' बह्वपि लब्ध्वा 'न निहे' त्ति न स्थापयेत्-न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद्, अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादिति, आह - 'परि' इत्यादि, परिगृह्यत इति परिग्रहो - धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वष्केद्-अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया परिग्रहो भवति, 'मूर्च्छा परिग्रहः' ( तत्त्वा० अ० ८ सू० ) इतिवचनात् तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवत् मूर्च्छा न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि -आ|त्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठौ, ताभ्यां च कर्म्मबन्धः, ततः कथं
Jain Education International
For Personal & Private Use Only
लोक. वि. २
उद्देशकः ५
॥ १३४ ॥
www.jainelibrary.org