SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात् स्कन्दाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरमालोक्य सबलवाहनराजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि-कथमहं शिशन स्वभ्रातृनुत्पन्ननिरावरणज्ञानांश्छद्मस्थः सन् द्रक्ष्यामीति ?, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वते, अथवा अप्रतिज्ञः-अनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैवैतद्भविष्यतीत्येवं प्रतिज्ञा न करोतीत्यप्रतिज्ञो, यदिवा स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यैकपक्षावधारणं प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि-मैथुनविषयं विहायान्यत्र न क्वचिनियमवती प्रतिज्ञा विधेया,यत उक्तम् -"न ये किंचि अणुण्णायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं ॥१॥ तथा १ नापि किञ्चिदकल्पनीयमनुज्ञातं कारणे च समुत्पन्ने नापि किञ्चित् प्रतिषिद्धं, किन्तु एषा तेषां तीर्थकृतां निश्चयव्यवहारनयद्वयाश्रिता सम्यगाज्ञा मन्तव्या यदुत कार्ये ज्ञानाद्यालम्बने सत्येन सद्भावसारेण साधुना भवितव्यं, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः, तात्त्विकज्ञानाद्यालम्बनसिध्यैव मोक्षपथसिद्धर्बाह्यामानुष्ठानस्य अनेकान्तिकत्वादनात्यन्तिकत्वाच, इत्यमेव तस्य द्रव्यत्वसिद्धेः, अथवा सत्यं नाम संयमस्तेन कार्य समुत्पन्ने भवितव्यं, यथा यथा संयम उपसर्पति तथा | तथा कर्त्तव्यं, तदुत्सर्पणं च शक्त्यनिगूहनेनैव निर्वहतीति, सर्वत्र यथाशक्ति यतितव्यमेवेति भावः, आह च बृहद्भाष्यकार:-"कजं नाणादीयं सर्च पुर्ण होइ संजमो णियमा । जह जह सोहेइ चरणं तह तह कायब्वयं होइ ॥१॥" दोषा रागादयो निरुध्यन्ते-सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते येनानुष्ठानविशेषेण पूर्वकर्माणि प्रागभवोपात्तज्ञानावरणादिकर्माणि च येन क्षीयन्ते स सोऽनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः, रोगावस्थासु-ज्वरादिरोगप्रकारेषु शमनमिवोचितौषधप्रदानापथ्यपरिहाराधनुष्ठानमिव, यथा तेन विधीयमानेन ज्यरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादे चापवाद समाचरतो रागादयो निरुध्यन्ते पूर्वकामाणि च क्षीयन्ते, 9.7%*%分久必%水***公分* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy