SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (शी०) ॥ १३२ ॥ श्रीआचा वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ राङ्गवृत्तिः पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकर्म्मपिण्डश्चेति १६ । तथा दशैषणादोषाः, ते चामी -शङ्कित १ म्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ न्मिश्रा ७ परिणत ८ लिप्तो ९ ज्झित१० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चो भयोत्यादिता इति । तथा परसमयज्ञो ग्रीष्ममध्याहृतीव्रतर तरणिकरनिकरावली ढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग| जातिदेश्येनाभिहितः किमिति भवतां सर्वजनाचीर्ण स्नानं न सम्मतमिति ?, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाज्जलस्नानं प्रतिषिद्धं, तथा चार्षम् - " स्नानं मददकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ १ ॥ इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्न उत्तरदानकुशलो भवति, तथा 'भावन्ने' भावः - चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः, किं च- 'परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः - संयमातिरिक्तमुपकरणादिः तमममीकुर्वन्- अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत् स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह - ' कालाणुड़ाई' यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी - कालानतिपातकर्त्तव्योद्यतो, ननु चास्यार्थस्य 'से भिक्खू कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति १, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्य विधत्त इति । किं च- 'अपडिण्णे' नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, Jain Education International For Personal & Private Use Only लोक. वि. २ उद्देशक: ५ ॥ १३२ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy