________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशका
॥१२९॥
उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थ विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण मुमुक्षुणोत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठान विधायिना दीर्घसंयमयात्रार्थ देहपरिपालनाय लोकनिश्रया विहर्त्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि ?, तदभावे धर्मश्चेति, उक्तं हि-"धर्म चरतः साधोर्लोके निश्रापदानि पश्चापि । राजा गृहपतिरपरः षटाया गणशरीरे च ॥१॥” साधनानि च वस्त्रपात्रान्नासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, स च लोकादन्वेष्टव्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलत्राद्यर्थ आरम्भे प्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति
जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओ कज्जइ,
इहमेगेसिं माणवाणं भोयणाए (सू०८६) 'यैः' अविदितवेद्यैः 'इद'मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य 'विरूपरूपैः' नानाप्रकारस्वरूपैः 'शस्त्रैः' प्राण्युपघातकारिभिर्द्रव्यभावभेदभिन्नैः 'लोकाय' शरीरपुत्रदुहितुस्नुषाज्ञात्याद्यर्थे 'कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां
॥१२९॥
in Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org