________________
कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणां वा, समारम्भा इति मध्यग्रहणाद्बहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानं, तेनायमर्थः-शरीरकलत्राद्यर्थ संरम्भसमारम्भारम्भाः ‘क्रियन्ते' अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः, कर्मणो वा-अष्टप्रकारस्य समारम्भाः-उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुर्थ्यर्थे षष्ठी, साऽपि तादयें, कः पुनरसौ लोको? यदर्थ संरम्भसमारम्भारम्भाः क्रियन्त इत्याह-'तंजहा अप्पणो से' इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुर्वृत्तिमन्वेषयेत् , यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा अप्पणो से' इत्यादि, 'तद्यथे'त्युपप्रदर्शनार्थो, नोक्तमात्रमेवान्यदप्येवंजातीयकं मित्रादिकं द्रष्टव्यं, 'से'तस्यारम्भारिप्सोर्य आत्मा-शरीरं तस्मै अर्थ तदर्थ कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितं, न च शरीरं लोको भवति, नैतदस्ति, यतः परमार्थदृशां ज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्व शरीराद्यपि पराक्यमेव, तथाहिबाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति,
तदेवं कश्चिच्छरीरनिमित्तं कारभते, परस्तु पुत्रेभ्यो दुहितृभ्यः स्नुषाः-वध्वस्ताभ्यो ज्ञातयः-पूर्वापरसम्बद्धाः स्वजनाः जातेभ्यो धात्रीभ्यो राजभ्यो दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनो यस्मिन्नागते तदातिथेयायेत्या
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org