SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ AARRRRRRRRR जिअसंजमो१अलोगोजह बज्झइ जह यतंपजहियव्वं ।सुहदुक्खतितिक्खाविय३सम्मत्तं४लोगसारो ५य ३३ निस्संगया ६ य छढे मोहसमुत्था परीसहुवसग्गा ७ । निजाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९॥३४॥ तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो–'जियसंजमोत्ति जीवेषु संयमो जीवसंयमः-तेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः। लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियवं'ति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तनहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम्-प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपःसेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवि|तव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम्-प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम्-संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम्-निर्याणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे त्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्प्रदर्शनं च शेषसाधूनामुत्साहाथै, १ उदइओ भावो लोगा कसाया जाणियव्वा (इति चूर्णिः). Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy