SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अध्ययन उद्देशकः१ देवा, क्षेत्रण द्रव्याथै हस्तिनातिचरणं गमन श्रीआचा- चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति-गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचराङ्गवृत्तिःकरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्याथै हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, (शी०) लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावचरणमाह भावे गइमाहारो गुणो गुणवओ पसत्थमपसत्था । गुणचरणे पसत्थेण बंभचेरा नव हवंति ॥ ३०॥ भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेगच्छतः, भक्षणचरणमपि शुद्ध पिण्डमुपभुजानस्य, गुणचरणमप्रशस्तं मिथ्यादृष्टीनां सम्यग्दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थ मूलोत्तरगुणकलापविषयम् , इह चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमनुशील्यन्ते ॥ एतेषां चान्वार्थाभिधानानि दर्शयितुमाहसत्थपरिणा१लोगविजओरय सीओसणिज्ज३सम्मत्तं तह लोगसारनाम५धुयं ६ तह महापरिणा७य ३१ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ ३२॥ | स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि-आचाराग्राणीति ॥ साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राद्यमाह ॥ ९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy