________________
श्रीआचाराङ्गवृत्तिः
लोक.वि.२
(शी०)
उद्देशकः३
॥११९॥
अथवा भूतेषु शुभाशुभरूपं कर्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति- "पुरिसेणं खलु दुक्खुब्वेअसुहेसए" 'पुरुषो' जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणे दुःखात् उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकश्च दुःखोद्वेगसुखैषकः, सर्वोऽपि प्राणी दुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्य, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकलपञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थयः, तत्परिपालनार्थ चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते-'समिए एयाणुपस्सी' पश्चभिः समितिभिः समितः सन् एतत्-शुभाशुभं कर्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहीति सण्टङ्कः, तत्र 'समिति'रिति 'इण् गता' वित्यस्मात्सम्पूर्वात् क्तिन्नन्ताद्भवति, सा च पञ्चधा, तद्यथा-इर्याभाषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणनतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवा यदनुदयसौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे फासे परिसंवेएई' संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतोभावतश्च, तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयोभावान्धाः, उक्तं च-"एकं हि चक्षुरमलं सहजो
मितिरसदभिधा, तद्यथा-पर्याभाषपर्णहीति सण्टङ्कः, तत्र साम एतत्-शुभाशुभं कमा अप्यनुशी
इति तदेवं पञ्चमहो। एषणासमितिरक्षयोत्सर्गरूपाः, तत्रर्याप्त मत गत
॥११९॥
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org