________________
विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्यं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः॥१॥" सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धाः, त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तं च-"जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥१॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृजननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्त्तात्? ॥२॥" एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्ति इति, उक्तं च-"धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः। किं जीवतीह बधिरो? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति? ॥१॥ स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य ? ॥२॥” एवं मूकत्वमप्येकान्तेन दुःखावह परिसंवेदयते, उक्तं च-"दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेश मूढाः कर्मकृतं किं न पश्यन्ति ? ॥१॥" तथा काणत्वमप्येवंरूपमिति, आह च-"काणो निमग्नविषमोन्नतदृष्टिरेकः, शको विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मन:प्रियत्वमालेख्यकर्मलिखितोऽपि किमु स्वरूपः? ॥१॥" एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं कुब्जत्वं' वामनलक्षणं 'वडभत्वं विनिर्गतपृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णलक्षणं 'शबलत्वं' श्वित्रलक्षणं सहजं पश्चाद्भावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किं च-सह 'प्रमादेन' विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन 'अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनीः 'संदधाति'संधत्ते
कन्जत्व' वामनलयाचदुपैति मनःपमिति, आह भूकत्वं सर्वतिधरस्य ? ॥२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org