________________
श्रीआचाराङ्गवृत्तिः (शी०)
मित्याह-'जहेत्थ' इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् 'कुशलो' निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं 'नोपलिम्पयेः' न तत्र संश्लेषं कुर्या इति, विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्यास्त्वम् । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकविजये द्वितीय उद्देशकः समाप्तः॥
लोक.वि.२ उद्देशकः३
॥११६॥
। उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादृढत्वमुक्तं, तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यात् अतस्तद्वयुदासार्थमिदमभिधीयते । अस्य चानन्तरसूत्रेण सम्बन्धः-'जहेत्थ कुसले नोवलिंपेजासि' कुशलो निपुणः सन्नस्मिन्नुच्चैर्गोत्राभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वं, किं मत्वा ?, इत्यतस्तदभिधीयते
से असइं उच्चागोए असइं नीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई?, कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे,
भूएहिं जाण पडिलेह सायं (सू०७७) 'से असई उच्चागोए असई नीआगोएत्ति' 'स' इति संसार्यसुमान् 'असकृद्' अनेकशः उच्चैर्गोत्रे मानसत्कारार्हे,
॥११६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org