________________
M
OTOROSAROSAGAR
उत्पन्न इति शेषः, तथा असकृन्नीचैर्गोत्रे सर्वलोकावगीते, पौनःपुन्येनोसन्न इति, तथाहि-नीचैर्गोत्रोदयादनम्तमपि कालं तिर्यश्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्सवातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपा एता द्वादशकर्मप्रकृतीनिर्लेप्याशीतिसका तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्लयति पल्योपमासंख्येयभागेन, अतोजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मताऽपीति, ततोऽप्युद्वत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, बसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिलेपिते तूच्चैर्गोत्रे द्वितीयचतुर्थों भङ्गो, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यशूच्चैर्गोत्रस्योदयाभावादिति भावः, तदेवमुच्चैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यश्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासड्ख्ये
१ स्यान्यत्रापि आदावय. प्र. २ अनिर्लेपिते तूचर्गोत्रे द्वितीयो भङ्गकः, कस्यचित्प्रथमसमय एवापरस्यान्तमुहूर्ताद्वोर्ध्वमुच्चै!त्रसम्बन्धसद्भावे चतुर्थभङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथोर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यक्षबैर्गोत्रस्योदयाभावादिति भावः । तदेवमुञ्चैर्गोत्रोद्बलनेन कलंकलीभावमापन्नोऽसंख्येयमपि कालं सूक्ष्मत्रसेष्वास्ते, ततोऽप्युदत्त उच्चैर्गोत्रोदयाभावे सति द्वितीयचतुर्थभनकस्थोऽनन्तमपि कालं तिर्यक्ष्वास्ते इति, स च अनन्ता उत्सर्पिण्यवसप्पिणीः, आवलिकाकालासंख्येयभागसमयसंख्यान पुद्गलपरावर्तानिति प्र. ३ नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती ३ उच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती ५ उच्चैर्गोत्रस्योदय उच्चनीचैगोत्रे सती ६ उच्चैर्गोत्रस्योदय उच्चैर्गोत्रं सत् ७ इत्येवंरूपाः शेषास्तृतीयपञ्चमषष्ठसप्तमभङ्गरूपाश्चत्वारः. प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org