SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कज्जेहिं दंडं समारंभाविजा एएहिं कज्जेहिं दंडं समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिजासि तिबेमि (सू०७६) लोगविजयस्स बितिओ उद्देसो ॥२॥ 'तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम्, इह वा यदुक्तम् अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थ च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, नैव 'स्वयम्' आत्मना एतैः-आत्मबलाधानादिकैः 'कार्यैः' कर्त्तव्यैः समुपस्थितैः सद्भिः 'दण्ड' सत्त्वोपघातं समारभेत्, नाप्यन्यमपरमेभिः कार्हिसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् । एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति–'एस' इत्यादि, 'एष' इति ज्ञानादियुक्तो भावमार्गों योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा 'आर्यैः' आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-संसारार्णवतटवर्तिनः क्षीणघातिकम्ौशाः संसारोदरविवरवर्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा योगपद्याशेषसंशीतिच्छेच्या प्रकर्षेण वेदितः-कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्ग ज्ञात्वा किं कर्त्तव्य वामी जम्बूस्वामिनमानमाणमप्यपरं योगत्रिकेण न समजात, नाप्यन्यमपरमेभिः कात्मिबल 25 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy